मीनाक्षी पञ्चरत्नम् - उद्यद्भनुसहस्रकोटिसदृशाम् copertina

मीनाक्षी पञ्चरत्नम् - उद्यद्भनुसहस्रकोटिसदृशाम्

मीनाक्षी पञ्चरत्नम् - उद्यद्भनुसहस्रकोटिसदृशाम्

Ascolta gratuitamente

Vedi i dettagli del titolo

A proposito di questo titolo

मीनाक्षी पञ्चरत्नम् - उद्यद्भनुसहस्रकोटिसदृशाम्


उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां

विम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।

विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां

मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥१॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां

शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।

सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां ।

मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥२॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां

श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।

श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं ।

मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥३॥


श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां

श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।

वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां ।

मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥४॥


नानायोगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां

नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।

नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां ।

मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥५॥

Ancora nessuna recensione